Texte alternatif

                 अथ स्वागतम्

आचार्यः
प्रियच्छात्राः। स्वागतं सर्वेषां भवतां दशमकक्षायाम्।
छात्राः
आचार्य। किं दशमकक्षायामपि मणिकामेव पठामः किल?
आचार्यः
आम्। मणिकामेव पठामः, परन्तु अस्याः द्वितीयं भागम्।
छात्राः
एवम्! द्वितीयं भागम्। अत्र किं वैशिष्ट्यम्।
आचार्यः
पठित्वा ज्ञायताम्। पाठान्ते दत्ताः प्रस्तावितक्रियाकलापाः अपि करणीयाः। पुस्तकान्ते दत्तानि गीतानि गीयन्ताम्। विनोदकणिकाः पठित्वा ज्ञानवर्धनेन सहितं मनोरञ्जनमपि क्रियताम्।
छात्राः
उत्सुकाः वयम् एतां पठितुम्।
आचार्यः
सफलं भवतु युष्माकं ज्ञानमयं तपः। गायामः वयं मिलित्वा एव ऋग्वेदस्य एतां प्रार्थनां "समानमस्तु वो मनः"।

previous Hindi English Next