पुरोवाक्

भारते सहस्रशः छात्राः केन्द्रीय - माध्यमिक - शिक्षा - बोर्ड् द्वारा विद्यालयेषु संस्कृतं पठन्तः सन्ति । संस्कृतस्य बोधने सम्प्रेषणाधारितः पाठ्यक्रमः (communicative approach) आश्रीयते तेषु विद्यालयेषु । तेन संस्कृतपठनं कठिनम् इति भावना शनैः व्यपगच्छन्ती अस्ति । संस्कृतविषये अभिरुचिवर्धकस्य एतस्य उपक्रमस्य योग्यं सहकरणं अपेक्षितम् । कथम्?

सङ्गणकीयं युगमिदम्। सङ्गणकद्वारा संस्कृतबोधनं नितान्तम् आकर्षकं रोचकं च भवति। गणितं, विज्ञानम्, आङ्ग्लम् इत्यादीनां कृते सङ्गणकमाध्यमेन अध्ययनव्यवस्था वर्तते । किन्तु संगणकमाध्यमेन विद्यालयीयसंस्कृतं पाठयितुं प्रयत्नाः विरला एव । व्योम लिङ्ग्विस्टिक् ल्याब्स् द्वारा अस्यां दिशि कश्चन प्रयत्नः विहितः।

केन्द्रीय - माध्यमिक - शिक्षा - बोर्ड् - संस्थायाः दशमकक्ष्यापाठ्यांशाः (मणिका-२, संस्कृत-अभ्यास-पुस्तकम्) सङ्गणकमाध्यमेन अन्तर्जालाधारेण पाठयितुं शैक्षिक - निर्वहण - व्यवस्था (Learning Management System) काचित् कल्पिता वर्तते । स्वगृहे एव भूत्वा दशमकक्ष्याच्छात्राः संस्कृतसम्बद्धान् पठ्यांशान् पठितुम्, अभ्यसितुं च शक्नुवन्ति । अनेकैः अभ्यासैः, Animations, Video, Audio इत्यादिभिः उपकरणैः च अध्ययनं, पुनरवलोकनं, अभ्यासं च कर्तुं शक्नुवन्ति । पाठ्यभागातिरिक्ताः अंशाः अपि Tell me more इति विभागे विद्यन्ते। अनेन च ग्रहणधारणपटवः बालाः अधिकान् विषयान् ग्रहीतुं शक्नुवन्ति । ये च छात्राः विषयग्रहणे क्लेशमनुभवन्ति तेऽपि पूर्वोक्तैः आकर्षकैः उपकरणैः संस्कृतभाषयां समर्थाः भविष्यन्ति। अभ्यासप्रश्नपत्रद्वारा भूयो भूयः अभ्यासमपि कृत्वा तेऽपि अधिकान् अङ्कान् प्राप्तुं शक्नुवन्ति ।

ये चान्ये संस्कृताभिमानिनः, संस्कृताध्ययने श्रद्धावन्तः तेऽपि अत्रत्यान् गद्यपद्यव्याकरणाद्यंशान् पठित्वा स्वसंस्कृताध्ययने अग्रे सर्तुं शक्नुवन्ति । संस्कृतक्षेत्रे इदम्प्रथमतया कृतः अयं प्रयत्नः सर्वेषामुपयोगी भवति इति विभाव्यते । अत्र केऽपि परिष्काराः करणीयाश्चेत् कृपया सूचयन्तु इति प्रार्थ्यते ।

अस्य च सदुपयोगः सर्वैरपि शिक्षकैः छात्रैः च क्रियताम् इति सम्प्रार्थ्य विरम्यते ।
सदस्या:
व्योम लिङ्ग्विस्टिक् ल्याब्स् फौन्डेशन्